वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡दि꣢न्द्रा꣣हं꣢꣫ यथा꣣ त्व꣡मीशी꣢꣯य꣣ व꣢स्व꣣ ए꣢क꣣ इ꣢त् । स्तो꣣ता꣢ मे꣣ गो꣡स꣢खा स्यात् ॥१२२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् । स्तोता मे गोसखा स्यात् ॥१२२॥

मन्त्र उच्चारण
पद पाठ

य꣢त् । इ꣣न्द्र । अह꣢म् । य꣡था꣢꣯ । त्वम् । ई꣡शी꣢꣯य । व꣡स्वः꣢꣯ । ए꣡कः꣢ । इत् । स्तो꣣ता꣢ । मे꣣ । गो꣡सखा꣢꣯ । गो । स꣣खा । स्यात् ॥१२२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 122 | (कौथोम) 2 » 1 » 3 » 8 | (रानायाणीय) 2 » 1 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णन है कि यदि मैं परमेश्वर के समान धनपति हो जाऊँ तो क्या करूँ।

पदार्थान्वयभाषाः -

(यत्) यदि (इन्द्र) हे परमेश्वर ! (अहम्) आपका उपासक मैं (यथा त्वम्) जैसे आप हैं, वैसे (वस्वः) विद्याधन या भौतिकधन का (एकः इत्) एकमात्र (ईशीय) स्वामी हो जाऊँ, तो (मे) मेरा (स्तोता) प्रशंसक, शिष्य या सेवक (गोसखा) वेदवाणियों का पण्डित अथवा गाय आदि धन का धनी (स्यात्) हो जाए ॥८॥

भावार्थभाषाः -

परमेश्वर सम्पूर्ण विद्याधन का और भौतिकधन का एकमात्र परम अधीश्वर है और उससे अपने विद्याधन को वेदरूप में तथा भौतिकधन को सोने, चाँदी, सूर्य, वायु, जल, फल, मूल आदि के रूप में हमें दिया है। वैसे ही मैं भी यदि परमेश्वर की कृपा से विद्यादि धन का और भौतिक धन का अधिपति हो जाऊँ तो मैं भी अपने प्रशंसक शिष्यों को विद्यादान देकर वेदादि श्रेष्ठ शास्त्रों में पण्डित और सेवकों को धन देकर गाय आदि ऐश्वर्यों से भरपूर, अत्यन्त धनी कर दूँ ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

इन्द्रवद् यद्यहमपि धनाधीशो भवेयं तदा किं कुर्यामित्युच्यते।

पदार्थान्वयभाषाः -

(यत्) यदि (इन्द्र) हे परमेश्वर ! (अहम्) त्वदुपासकः (यथा त्वम्) त्वमिव (वस्वः) वसुनः विद्याधनस्य भौतिकधनस्य वा। वसुनः इत्येतस्य स्थाने लिङ्गव्यत्ययेन वसोः इति प्राप्ते जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधाया ह्रस्वः। अ० ७।३।१०९ वा० इति ‘घेर्ङिति।’ अ० ७।३।११ इत्यनेन प्राप्तस्य गुणस्य विकल्पनात्तदभावे यणादेशः। (एकः इत्) अद्वितीय एव (ईशीय) अधीश्वरो भवेयम्, तत् तर्हि (मे) मम (स्तोता) प्रशंसकः शिष्यः सेवको वा (गोसखा) गोभिः वेदवाग्भिः सहितः पण्डितः, गवादिधनेन वा सहितो धनिकः (स्यात्) भूयात् ॥८॥२

भावार्थभाषाः -

परमेश्वरः सम्पूर्णस्य विद्याधनस्य भौतिकधनस्य च एक एव परमाधीश्वरोऽस्ति, स च स्वकीयं विद्याधनं वेदरूपेण, भौतिकधनं च सुवर्णरजतसूर्यपवनजलफलमूलादिरूपेणास्मभ्यं प्रायच्छत्। तथैव यद्यहमपि परमेश्वरकृपया विद्यादिधनस्य भौतिकधनस्य चाधीश्वरो भवेयं, तर्हि अहमपि नूनं स्वप्रशंसकान् शिष्यान् विद्यादानेन वेदादिसच्छास्त्रनिष्णातान्, सेवकाँश्च धनदानेन धेन्वाद्यैश्वर्यसम्पन्नान् परमधनिकान् कुर्याम् ॥८॥

टिप्पणी: १. ऋ० ८।१४।१, अथ० २०।२७।१, उभयत्र गोषखा इति पाठः। साम० १८३४। २. इयमृक् प्रदाने विलम्बमानम् इन्द्रं प्रति उच्यते—इति भ०। त्वं तु स्तोत्रे मह्यं गवादिप्रदाने विलम्बसे, अहं चेत् त्वमिव धनाधीश्वरो भवेयं तर्हि सद्य एव स्वस्तोतारं गोसखं कुर्यामिति तदीयं तात्पर्यं बोध्यम्।